By Shri Kesava Rao Tadipatri
पद्येषु सन्धि-नियमः
विषयः:
कृष्णवृंदावनक्षेत्रे न्यूजेर्स्यां हूस्टने तथा।
फिनिक्सु-नगरे चैव सान-होसे विशोभिते॥
नवत्युत्सवसंदर्भे मध्वसिद्धांतवादिनम्।
वंदे आचार्य-गोविंदं बन्नंजे इति विश्रुतम्॥
आक्षेपः / पूर्वपक्षः:
वन्दे आचार्य इत्यत्र कथं सन्धिः न भवति?
वन्दे आचार्य --> ऐचोयवायावः इति कृते
वन्दयाचार्य
इति भवति। अथवा लोपः शाकल्यस्य
इति सूत्रेण वन्द आचार्य इति
विकल्प्यते, तदा
छन्दो
भङ्गः स्यात्।
सिद्धान्तः:
वैकल्पिकत्वात्सन्धिर्न भवति।
अन्यथा
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो
इति षष्ठोऽध्यायस्यान्ते
श्रीकृष्णार्जुनसंवादयात्मसंयमयोगो
वा
श्रीकृष्णार्जुनसंवाद आत्मसंयमयोगो
वा
इति विक्लप्यते।
अत्र तु छन्दो बाधापि न वर्तते। तथापि सन्धिः न कृतः।
आक्षेपः / पूर्वपक्षः:
तत्र तु वाक्यमेव न पद्यम्। संहिता नास्ति । श्लोके तु संहिता नित्या। अतः सन्धिः न वैकल्पिकः।
सिद्धान्तः:
तत्तु विपरीतमेव। छन्दोऽनुकूलता कृते सन्धि-शब्दादिषु कवीनां नियमेष्वायामो भवति। तथाच आचार्येण तत्प्रदर्शितः -
शुभतम कथशय परमसदोदित जगदेक कारण रमरम रमणा। इत्यादौ।
तदपि न केवलमाचार्येण प्रदर्शितः, किन्तु सार्वत्रिक सार्वजनिक साधारण स्वीकार्य प्रसङ्गो भवति।
Even AI acknowledges that. When a query is made that sandhi rules are to be applied strictly in poetry with no flexibility, but it is flexible in prose, the AI contends and says that the traditional application is quite the opposite.
यदि पद्येषु सन्धिनिर्बन्धः भवति चेत्, वेदव्यासस्य श्रीमद्भागवतमपि दोषदूषित-भाषा-कलङ्कितं भवति।
वेपथुश्चापि हृदये आराद् दास्यन्ति विप्रियम्॥ १.१३.११॥
यं रुग्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे॥ ३.१.२८॥
कार्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः॥ ३.५.१८॥
युञ्जतो नापकुरुते आत्मारामस्य कर्हिचित्॥ ३.२८.२७॥
अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः
भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः॥ ४.१.३१॥
येऽभ्यागतान्वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः॥ ४.३.१८॥
तथा साधय भद्रं ते आत्मानं सप्रजं नृप।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक्॥ ४.१३.३२॥
बृहस्पतिर्ब्रह्मवादे आत्मतत्त्वे स्वयं हरिः।
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु॥ ४.२२.६५॥
तस्यां सञ्जनयाञ्चक्रे आत्मजामसितेक्षणाम्।
यवीयसः सप्त सुतान् सप्तद्रमिळभूभृतः॥ ४.२८.३०॥
अक्षिणी नासिके आस्यमिति पञ्च पुरस्कृताः।
दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः॥ ४.२९.९॥
दण्ड्याः किं कारिणः सर्वे आहोस्वित् कतिचिन्नृणाम्॥ ६.१.३९॥
स्वागतं ते वरारोहे आस्यतां करवाम किम्।
संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः॥ ९.१२.२१॥
उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन् जनेषु॥ ९.२१.६७॥
सम्मील्य मृगशाबाक्षी नेत्रे आसीत् सुविस्मिता॥ १०.८.३९॥
नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम्॥ १०.९.२०॥
भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम्॥ १०.१८.२९॥
हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम्॥ १०.२२.३७॥
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे।
गोलोकादाव्रजत् कृष्णं सुरभिः शक्र एव च॥ १०.२५.१॥
अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा॥ १०.५३.२७॥
आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम्।
यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः॥ १०.७०.२८॥
एकदा तु सभामध्ये आस्थितो मुनिभिर्वृतः।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः॥ १०.८०.१॥
क्षुत्तृष्णे च प्रशान्ते मे आत्मा चानन्दनिर्भरः।
प्रसादात् तव धर्मज्ञ कृतार्थोऽहमिहाभवम्॥ १०.९६.४॥
हेतुनैव समीहन्ते आयुषो यशसः श्रियः॥ ११.७. २७॥
नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम्॥ ११.७.४९॥
सुदुःसहमहं मन्ये आत्मन्यसदतिक्रमम्॥ ११.२२.५९॥
अहो मे आत्मसम्मोहो येनात्मा योषिता हृतः।
क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः॥ ११.२६.९॥
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः।
अर्जुनेनान्विताः सर्वे इन्द्रप्रस्थं गमिष्यथ॥ ११.३०.४८॥
एते आथर्वणाचार्याः शृणु पौराणिकान् मुने॥ १२.६.४८॥
Comments
Post a Comment